|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.19. अध्यायः 019
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धारीवचनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
गान्धार्युवाच। 11-19-0x(5354)(65345)
एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः।
भूमौ विनिहतः शेते भीमेन शतधा कृतः॥ 11-19-1(65346)
गजमध्ये हतः शेते विकर्णो मधुसूदन।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः॥ 11-19-2(65347)
अस्य चापग्रहेणैव पाणिः कृतकिणो महान्।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्॥ 11-19-3(65348)
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी।
वारयत्यनिशं बाला न च शक्नोति माधव॥ 11-19-4(65349)
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव॥ 11-19-5(65350)
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्॥ 11-19-6(65351)
एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे॥ 11-19-7(65352)
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः॥ 11-19-8(65353)
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम्।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः॥ 11-19-9(65354)
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्॥ 11-19-10(65355)
चित्रसेनं हतं भूमौ शयानं मधुसूदन।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्॥ 11-19-11(65356)
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते॥ 11-19-12(65357)
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्।
चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे॥ 11-19-13(65358)
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव॥ 11-19-14(65359)
शरसङ्कृत्तवर्माणं वीरं विशसने हतम्।
परिवार्यासते गृध्राः परिविंशं विविंशतिम्॥ 11-19-15(65360)
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम्।
स वीरशयने शेते परः सत्पुरुषोचिते॥ 11-19-16(65361)
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्।
अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः॥ 11-19-17(65362)
यं स्म तं पर्युपासन्ते बहुधा वरयोषितः।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः॥ 11-19-18(65363)
हन्तारं परसैन्यानां शूरं समितिशोभनम्।
निबर्हणममित्राणां दुःसहं विषहेत कः॥ 11-19-19(65364)
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः॥ 11-19-20(65365)
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः॥ ॥ 11-19-21(65366)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|